अमरकोशः


श्लोकः

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथस्थितिः ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वरिवस्या वरिवस्या स्त्रीलिङ्गः वरिवसः करणम् । क्यच् कृत् आकारान्तः
2 शुश्रूषा शुश्रूषा स्त्रीलिङ्गः शुश्रूषणम् । सनादिः आकारान्तः
3 परिचर्या परिचर्या स्त्रीलिङ्गः परिचरणम् । निपातनात् आकारान्तः
4 उपासना उपासना स्त्रीलिङ्गः उपासनम् । युच् कृत् आकारान्तः
5 व्रज्या व्रज्या स्त्रीलिङ्गः क्यप् कृत् आकारान्तः
6 अटाट्या अटाट्या स्त्रीलिङ्गः अटनम् निपातनात् आकारान्तः
7 पर्यटन पर्यटनम् नपुंसकलिङ्गः अटनम् ल्युट् कृत् अकारान्तः
8 चर्या चर्या स्त्रीलिङ्गः चरणम् । यत् कृत् आकारान्तः