अमरकोशः


श्लोकः

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः । यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपज्ञा उपज्ञा स्त्रीलिङ्गः उपज्ञानम् । अङ् कृत् आकारान्तः
2 उपक्रम उपक्रमः पुंलिङ्गः उप प्रथमं क्रमणम् । घञ् कृत् अकारान्तः
3 यज्ञ यज्ञः पुंलिङ्गः इज्यते । नङ् कृत् अकारान्तः
4 सव सवः पुंलिङ्गः सूयते सोमोऽत्र । अप् कृत् अकारान्तः
5 अध्वर अध्वरः पुंलिङ्गः न ध्वरति । तत्पुरुषः समासः अकारान्तः
6 याग यागः पुंलिङ्गः इज्यते । घञ् कृत् अकारान्तः
7 सप्ततन्तु सप्ततन्तुः पुंलिङ्गः सप्तभिश्छन्दोभिरग्निजिह्वाभिर्वा तन्यते । तुन् उणादिः उकारान्तः
8 मख मखः पुंलिङ्गः मखन्ति देवा अत्र । घञ् कृत् अकारान्तः
9 क्रतु क्रतुः पुंलिङ्गः क्रियते वा । कतु उणादिः उकारान्तः