मखः

सुधाव्याख्या

मखन्ति देवा अत्र । अनेन वा । ‘मख गतौ ' (भ्वा० प० से०) । हलश्च' (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते’ इति घञ् विषयेऽपि । ‘पुंसि-' (३.३.११८) इति घः ॥