सवः

सुधाव्याख्या

सूयते सोमोऽत्र । ‘षु अभिषवे’ (स्वा० उ० अ०) । 'ऋदोरप्' (३.३.५७) । यद्वा सूयतेऽत्र । अनेन वा । ‘षू प्रेरणे' (तु० प० से०) । अप् (३.३.५७) । घः (३.३.११८) वा । ‘सवो यज्ञे च संधाने' इति मेदिनी ॥