अमरकोशः


श्लोकः

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् । शोफस्तु श्वयथुः शोथ: पादस्फोटो विपादिका ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षुत् क्षुत् स्त्रीलिङ्गः क्षवणम् । क्विप् कृत् तकारान्तः
2 क्षुत क्षुतम् नपुंसकलिङ्गः क्षवणम् । क्त कृत् अकारान्तः
3 क्षव क्षवः पुंलिङ्गः क्षवणम् । अप् कृत् अकारान्तः
4 कास कासः पुंलिङ्गः कासतेऽनेन । घञ् कृत् अकारान्तः
5 क्षवथु क्षवथुः पुंलिङ्गः क्षौत्यनेन । अथुच् कृत् उकारान्तः
6 शोफ शोफः पुंलिङ्गः शवति । बाहुलकात् अकारान्तः
7 श्वयथु श्वयथुः पुंलिङ्गः श्वयति अनेन । अथुच् कृत् उकारान्तः
8 शोथ शोथः पुंलिङ्गः श्वयति अनेन । थन् बाहुलकात् अकारान्तः
9 पादस्फोट पादस्फोटः पुंलिङ्गः पादस्य स्फोटः । तत्पुरुषः समासः अकारान्तः
10 विपादिका विपादिका स्त्रीलिङ्गः विपद्यतेऽनया । ण्वुल् कृत् आकारान्तः