शोफः

सुधाव्याख्या

शाविति । शवति । ‘शव गतौ’ (भ्वा० प० से०) । बाहुलकात् फः । यश्च । ‘च्छ्वोः-’ (६.३.१९) इत्यूठ् । ‘आद्गुणः’ (६.१.८७) । संज्ञापूर्वकत्वात् ‘एत्येध-’ (६.१.८९) इति न वृद्धिः । यद्वा शवति । ‘शु गतौ’ । ‘शोफ ओषधिभेदे स्यादुत्कृते त्वग्विवर्धने’ इति हैमः ॥