कासः

सुधाव्याख्या

केति । कासतेऽनेन । ‘कासृ शब्दकुत्सायाम्’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । (‘काशस्तृणे रोगभेदे’ इति हैमः । ‘वाराणस्यां भवेत्कासी क्षवथौ ना तृणेऽस्त्रियाम्’ इति तालव्यान्ते रभसाच्च तालव्यान्तोऽपि) ॥