अमरकोशः


श्लोकः

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया । भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनामय अनामयम् नपुंसकलिङ्गः आमयस्याभावः । अव्ययीभावः समासः अकारान्तः
2 आरोग्य आरोग्यम् नपुंसकलिङ्गः न रोगोऽस्य । तत्पुरुषः समासः अकारान्तः
3 चिकित्सा चिकित्सा स्त्रीलिङ्गः चिकित्सनम् । सनादिः आकारान्तः
4 रुक्प्रतिक्रिया रुक्प्रतिक्रिया स्त्रीलिङ्गः रुजः प्रतिक्रिया निरसनम् ॥ तत्पुरुषः समासः आकारान्तः
5 भेषज भेषजम् नपुंसकलिङ्गः भेषयति । अच् कृत् अकारान्तः
6 औषध औषधम् नपुंसकलिङ्गः ओषधेरिदम् । अण् तद्धितः अकारान्तः
7 भैषज्य भैषज्यम् नपुंसकलिङ्गः भेषजमेव । ञ्य तद्धितः अकारान्तः
8 अगद अगदः पुंलिङ्गः न गदोऽस्मात्, इति वा ॥ तत्पुरुषः समासः अकारान्तः
9 जायु जायुः पुंलिङ्गः जयति रोगान् । उण् उणादिः उकारान्तः