चिकित्सा

सुधाव्याख्या

चिकीति । ‘कितेर्व्याधिप्रतीकारे’ इति सन् । चिकित्सनम् । ‘अ प्रत्ययात्’ (३.३.१०२) ॥


प्रक्रिया

धातुः -


कितँ निवासे रोगापनयने व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च
कित् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कित् + सन् - कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च (3.1.6) । वार्तिकम् ।
कित् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कित् + कित् + स - सन्यङोः 6.1.9
कि + कित् + स - हलादिः शेषः 7.4.60
चि + कित् + स - कुहोश्चुः 7.4.62
चिकित्स + अ - अ प्रत्ययात्‌ 3.3.102
चिकित्सा - अकः सवर्णे दीर्घः 6.1.101
चिकित्सा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चिकित्सा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चिकित्सा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68