भेषजम्

सुधाव्याख्या

(भेषेति । भेषयति । 'भेषु भये’ (भ्वा० उ० से०) । ण्यन्तः । अच् (३.३.१३४) । भेषं रोगं जयति । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । भेषं जयति वा । ‘जै क्षये’ (भ्वा० प० से०) । ‘आतोऽनुप-’ (३.२.३) इति कः । -भिषज इदम् । ‘तस्येदम्’ (४.३.१३०) इत्यण् । ‘अनन्तावसथेतिहभेषजात्’ (५.४.२३) इति निर्देशादेत्वम्-इत्यन्ये ॥