अमरकोशः


श्लोकः

व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः । अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विद्रधि विद्रधिः स्त्रीलिङ्गः विद्रं धीयतेऽस्याम् । रक् उणादिः इकारान्तः
2 ज्वर ज्वरः पुंलिङ्गः ज्वरणं वा । अच् कृत् अकारान्तः
3 मेह मेहः पुंलिङ्गः मेहति । अच् कृत् अकारान्तः
4 भगन्दर भगन्दरः पुंलिङ्गः भगं दारयति । खच् कृत् अकारान्तः
5 अश्मरी अश्मरी स्त्रीलिङ्गः अश्मानं राति । कृत् ईकारान्तः
6 मूत्रकृच्छ्र मूत्रकृच्छ्रम् नपुंसकलिङ्गः मूत्रे कृच्छ्रमत्र ॥ बहुव्रीहिः समासः अकारान्तः