विद्रधिः

सुधाव्याख्या

व्येति । वेदनम् । विद्रम् । ‘बहुलमन्यत्रापि संज्ञाछन्दसोः’ (उ० २.२३) इति रक् । यद्वा विद्राति । ‘द्रा स्वप्ने पलायने’ (अ० प० अ०) । 'आतश्चोपसर्गे’ (३.१.१३६) इति कः । विद्रं धीयतेऽस्याम् । ‘डुधाञ्’ । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः । यद्वा विद्रस्य धानम् । ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) ॥


प्रक्रिया

धातुः -


विदँ ज्ञाने
विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद् + रक् - बहुलमन्यत्रापि संज्ञाछन्दसोः (२.२३) । उणादिसूत्रम् ।
विद् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
डुधाञ् धारणपोषणयोः
धा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विद्र + अम् + धा + कि - कर्मण्यधिकरणे च 3.3.93, उपपदमतिङ् 2.2.19
विद्र + धा + कि - सुपो धातुप्रातिपदिकयोः 2.4.71
विद्र + धा + इ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विद्र + ध् + इ - आतो लोप इटि च 6.4.64
विद्रधि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विद्रधि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद्रधि + रु - ससजुषो रुः 8.2.66
विद्रधि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद्रधिः - खरवसानयोर्विसर्जनीयः 8.3.15