भगन्दरः

सुधाव्याख्या

भगं दारयति । ‘भगे च दारेः’ (काशिका० ) इति खच् ॥


प्रक्रिया

धातुः -


दॄ भये
भग + अम् + दॄ + खच् - भगे च दारेरिति काशिका (3.2.41) । वार्तिकम्, उपपदमतिङ् 2.2.19
भग + दॄ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
भग + दॄ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भग + दर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
भग + मुम् + दर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
भग + म् + दर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भगंदर - नश्चापदान्तस्य झलि 8.3.24
भगन्दर - अनुस्वारस्य ययि परसवर्णः 8.4.58
भगन्दर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भगन्दर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भगन्दर + रु - ससजुषो रुः 8.2.66
भगन्दर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भगन्दरः - खरवसानयोर्विसर्जनीयः 8.3.15