अमरकोशः


श्लोकः

कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः । पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महिषी महिषी स्त्रीलिङ्गः मह्यते । टिषच् उणादिः ईकारान्तः
2 भोगिनी भोगिनी स्त्रीलिङ्गः अतिशयितो भोगोऽस्याः । इनि तद्धितः ईकारान्तः
3 पत्नी पत्नी स्त्रीलिङ्गः पत्युर्यज्ञे संयोगो यया । तद्धितः ईकारान्तः
4 पाणिगृहीती पाणिगृहीती स्त्रीलिङ्गः पाणिगृहीतोऽस्याः । ङीष् स्त्रीप्रत्ययः ईकारान्तः
5 द्वितीया द्वितीया स्त्रीलिङ्गः द्वयोः पूरणी । तीय तद्धितः आकारान्तः
6 सहधर्मिणी सहधर्मिणी स्त्रीलिङ्गः सह धर्मोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः