महिषी

सुधाव्याख्या

कृतेति । कृतोऽभिषेकोऽस्याः । मह्यते । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘अविमह्योष्टिषच्’ (उ० १.४५) । ‘महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे’ इति हेमचन्द्रः ॥