सहधर्मिणी

सुधाव्याख्या

सह धर्मोऽस्त्यस्याः । पत्या सह कर्मस्वधिकारात् । ‘धर्मशीलवर्णान्ताच्च’ (५.२.१३२) इतीनिः । ‘वोपसर्जनस्य’ (६.३.८२) इति सहस्य वा सः ॥