अमरकोशः


श्लोकः

बालस्तु स्यान्माणवक: वयस्थस्तरुणो युवा । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बाल बालः पुंलिङ्गः बल्यते, बलते, वा । घञ् कृत् अकारान्तः
2 माणवक माणवकः पुंलिङ्गः मनोरयम् । अण् तद्धितः अकारान्तः
3 वयस्थ वयस्थः पुंलिङ्गः वयसि तिष्ठति । कृत् अकारान्तः
4 तरुण तरुणः पुंलिङ्गः तरति । उनन् उणादिः अकारान्तः
5 युवन् युवन् पुंलिङ्गः यौति । कनिन् उणादिः नकारान्तः
6 प्रवयस् प्रवयः पुंलिङ्गः प्रगतं वयोऽस्य ॥ तत्पुरुषः समासः सकारान्तः
7 स्थविर स्थविरः पुंलिङ्गः तिष्ठति । किरच् उणादिः अकारान्तः
8 वृद्ध वृद्धः पुंलिङ्गः वर्धते स्म । क्त कृत् अकारान्तः
9 जीन जीनः पुंलिङ्गः जिनाति स्म । क्त कृत् अकारान्तः
10 जीर्ण जीर्णः पुंलिङ्गः जीर्यति स्म । क्त कृत् अकारान्तः
11 जरत् जरत् पुंलिङ्गः जीर्यति स्म । अतृन् कृत् तकारान्तः