माणवकः

सुधाव्याख्या

मनोरयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् ‘ब्राह्मणमाणव-’ (४.२.४२) इति निपातनाण्णत्वम् । ‘अल्पे’ (५.३.८५) इति कन् । ‘हारभेदे माणवको बाले कुपुरुषेऽपि च’ इति रभसः ॥