अमरकोशः


श्लोकः

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् । श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋतुमती ऋतुमती स्त्रीलिङ्गः ऋतुरस्त्यस्याः । मतुप् तद्धितः ईकारान्तः
2 उदक्या उदक्या स्त्रीलिङ्गः उदकमर्हति । यत् तद्धितः आकारान्तः
3 रजस् रजः नपुंसकलिङ्गः रज्यतेऽनेन । असुन् उणादिः सकारान्तः
4 पुष्प पुष्पम् नपुंसकलिङ्गः पुष्प्यते । घञ् कृत् अकारान्तः
5 आर्तव आर्तवम् नपुंसकलिङ्गः ऋतुरेव । अण् तद्धितः अकारान्तः
6 श्रद्धालु श्रद्धालुः स्त्रीलिङ्गः श्रद्धते तच्छीला । आलुच् कृत् उकारान्तः
7 दोहदवती दोहदवती स्त्रीलिङ्गः दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः । मतुप् तद्धितः ईकारान्तः
8 निष्कला निष्कला स्त्रीलिङ्गः कलान्निष्क्रान्ता । तत्पुरुषः समासः आकारान्तः
9 विगतार्तवा विगतार्तवा स्त्रीलिङ्गः विगतमार्तवं रजोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः