निष्कला

सुधाव्याख्या

नीति । ‘कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ’ (इति मेदिनी) । कलान्निष्क्रान्ता । ‘निरादयः क्रान्ताद्यर्थे’ (वा० २.२.१८) इति समासः । निर्गतं कलं शुक्रमस्या वा । ‘निष्कलं तु कलाशून्ये नष्टवीर्ये तु वाच्यवत्’ (इति मेदिनी) ॥