रजः

सुधाव्याख्या

स्यादिति । रज्यतेऽनेन । ‘भूरञ्जिभ्यां कित्’ (उ० ४.२१६) इत्यसुन् । ‘रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रे च दृश्यते’ (इति मेदिनी) ॥