अमरकोशः


श्लोकः

तिलपर्णी तु पत्त्राङ्गं रञ्जनं रक्तचन्दनम् । कुचन्दनं चाथ जातीकोषजातीफले समे ॥ १३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तिलपर्णी तिलपर्णी स्त्रीलिङ्गः तिलस्येव पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
2 पत्राङ्ग पत्राङ्गम् नपुंसकलिङ्गः पत्त्रमेवाङ्गमस्य । बहुव्रीहिः समासः अकारान्तः
3 रञ्जन रञ्जनम् नपुंसकलिङ्गः रञ्जयति । युच् उणादिः अकारान्तः
4 रक्तचन्दन रक्तचन्दनम् नपुंसकलिङ्गः रक्तं च तच्चन्दनं च ॥ तत्पुरुषः समासः अकारान्तः
5 कुचन्दन कुचन्दनम् नपुंसकलिङ्गः कौ चन्दनम् । ‘ तत्पुरुषः समासः अकारान्तः
6 जातीकोश जातीकोशम् नपुंसकलिङ्गः जात्याः कोशः । तत्पुरुषः समासः अकारान्तः
7 जातीफल जातीफलम् नपुंसकलिङ्गः जात्याः फलम् । तत्पुरुषः समासः अकारान्तः