रञ्जनम्

सुधाव्याख्या

रञ्जयति । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ण्यन्तः । युच् (उ० २.७८) । ल्युट् (३.३.११३) वा । ‘रञ्जनो रागजनने रञ्जनं रक्तचन्दने’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


रन्जँ रागे
रञ्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रञ्ज् + युच् - बहुलमन्यत्रापि (२.७८) । उणादिसूत्रम् ।
रञ्ज् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रञ्ज् + अन - युवोरनाकौ 7.1.1
रञ्जन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रञ्जन + अम् - अतोऽम् 7.1.24
रञ्जनम् - अमि पूर्वः 6.1.107