पत्राङ्गम्

सुधाव्याख्या

पत्त्रमेवाङ्गमस्य । पत्त्रेष्वङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘पत्त्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने’ (इति मेदिनी) ॥