अमरकोशः


श्लोकः

गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गन्धसार गन्धसारः पुंलिङ्गः गन्धवान् सारः स्थिरभागोऽस्य । बहुव्रीहिः समासः अकारान्तः
2 मलयज मलयजः पुंलिङ्गः मलये जातः । कृत् अकारान्तः
3 भद्रश्री भद्रश्री पुंलिङ्गः भद्रा श्रीरस्य । बहुव्रीहिः समासः ईकारान्तः
4 चन्दन चन्दनः पुंलिङ्गः, नपुंसकलिङ्गः चन्दयति । ल्युट् कृत् अकारान्तः
5 तैलपर्णिक तैलपर्णिकम् नपुंसकलिङ्गः तिलपर्णे वृक्षभेदे जाता । अण् तद्धितः अकारान्तः
6 गोशीर्ष गोशीर्षम् नपुंसकलिङ्गः गोः शीर्षमिव । तत्पुरुषः समासः अकारान्तः
7 हरिचन्दन हरिचन्दनः पुंलिङ्गः, नपुंसकलिङ्गः हरेरिन्द्रस्य चन्दनम् । तत्पुरुषः समासः अकारान्तः