तैलपर्णिकम्

सुधाव्याख्या

तैलेति । तिलपर्णे वृक्षभेदे जाता । ‘तत्र जातः’ (४.३.२५) इत्यण् । ङीप् (४.१.५) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । ‘तैलपर्णी मलयजे श्रीवासे सिह्नकेऽपि च’ (इति मेदिनी) ॥