अमरकोशः


श्लोकः

कालागुर्वगुरुः स्यात्तन्मङ्गल्या मल्लिगन्धि यत् । यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कालागुरु कालागुरुम् नपुंसकलिङ्गः कालं च तदगुरु च ॥ तत्पुरुषः समासः उकारान्तः
2 अगुरु अगुरुः पुंलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः उकारान्तः
3 मङ्गल्या मङ्गल्या स्त्रीलिङ्गः मल्लिकापुष्पस्येव गन्धो यस्य । यत् तद्धितः आकारान्तः
4 यक्षधूप यक्षधूपः पुंलिङ्गः यक्षान् धूपयति । अण् कृत् अकारान्तः
5 सर्जरस सर्जरसः पुंलिङ्गः सर्जस्य सालस्य रसः ॥ तत्पुरुषः समासः अकारान्तः
6 राल रालः पुंलिङ्गः न राति दुःखम् । लक् बाहुलकात् अकारान्तः
7 सर्वरस सर्वरसः पुंलिङ्गः सर्वै रस्यते । घञ् कृत् अकारान्तः