सर्वरसः

सुधाव्याख्या

सर्वै रस्यते । ‘रस आस्वादने’ (चु० उ० से०) अदन्तः । ण्यन्तः । घञ् (३.३.१९) । अच् (३.३.५६) वा । सर्वे रसा यस्मिन् वा । नानाकृतिगन्धत्वात् ॥