मङ्गल्या

सुधाव्याख्या

स्यादिति । मल्लिकापुष्पस्येव गन्धो यस्य । ‘उपमानाच्च’ (५.४.१३७) इतीत् । यदगुरु मल्लिगन्धि तत् मङ्गल्या स्यात् मङ्गले साधुः । ‘तत्र साधुः’ (४.३.९८) इति यत् । ‘मङ्गल्यः स्यात्त्रायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्प मिसिशुक्लवचासु च । रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु’ इति मेदिनी ॥