अमरकोशः


श्लोकः

राक्षा लाक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः । लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राक्षा राक्षा स्त्रीलिङ्गः रक्ष्यते । अण् तद्धितः आकारान्तः
2 लाक्षा लाक्षा स्त्रीलिङ्गः लक्ष्यते । अण् तद्धितः आकारान्तः
3 जतु जतुम् नपुंसकलिङ्गः जायते । उणादिः उकारान्तः
4 याव यावः पुंलिङ्गः यौति । अण् तद्धितः अकारान्तः
5 अलक्त अलक्तः पुंलिङ्गः न लज्यते स्म । तत्पुरुषः समासः अकारान्तः
6 द्रुमामय द्रुमामयः पुंलिङ्गः द्रुमाणामामयः ॥ तत्पुरुषः समासः अकारान्तः
7 लवङ्ग लवङ्गम् नपुंसकलिङ्गः लुनाति, लूयते, वा । अङ्गच् उणादिः अकारान्तः
8 देवकुसुम देवकुसुमम् नपुंसकलिङ्गः देवानां कुसुमम् । तत्पुरुषः समासः अकारान्तः
9 श्रीसंज्ञ श्रीसंज्ञम् नपुंसकलिङ्गः श्रियः संज्ञा संज्ञा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
10 जायक जायकम् नपुंसकलिङ्गः जयति गन्धान्तरम् । ण्वुल् कृत् अकारान्तः