अमरकोशः


श्लोकः

संव्यानमुत्तरीयं च चोल कूर्पासकौ स्त्रियाः । नीशार: स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संव्यान संव्यानम् नपुंसकलिङ्गः संवीयतेऽनेन । ल्युट् कृत् अकारान्तः
2 उत्तरीय उत्तरीयम् नपुंसकलिङ्गः उत्तरस्मिन्देहभागे भवम् । तद्धितः अकारान्तः
3 चोल चोलः पुंलिङ्गः, स्त्रीलिङ्गः चोल्यतेऽनेन । अच् कृत् अकारान्तः
4 कूर्पासक कूर्पासकः पुंलिङ्गः, नपुंसकलिङ्गः कूर्परेऽस्यते कृपरोऽस्यतेऽत्र वा । घञ् कृत् अकारान्तः
5 नीशार नीशारः पुंलिङ्गः नितरां शीर्येते हिमानिलावत्र । घञ् कृत् अकारान्तः