कूर्पासकः

सुधाव्याख्या

‘कूर्परः स्यात्कफोणौ च जानुन्यपि च पुंस्ययम्’ (इति मेदिनी) । कूर्परेऽस्यते कृपरोऽस्यतेऽत्र वा । ‘असु क्षेपणे’ (दि० प० से०) । कूर्परे आस्ते वा । ‘आस उपवेशने’ (अ० आ० से०) । घञ् (३.३.१९) । अच् (३.१.१३४) वा । पृषोदरादिः (६.३.१०९) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘कूर्पासस्त्वर्धचोलकः’ इति हारावली ॥ आप्रपदीनकञ्चुकस्य, ‘स्त्रीणां कञ्चुलिशाख्यस्य’ द्वे-इति स्वामी ॥


प्रक्रिया

धातुः -


असुँ क्षेपणे
अस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कूर्पर + ङि + अस् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19, उपपदमतिङ् 2.2.19
कूर्पर + अस् + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
कूर्पर + अस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कूर्पर + आस - अत उपधायाः 7.2.116
कूर्पास - पृषोदरादीनि यथोपदिष्टम् 6.3.109
कूर्पास + कन् - न सामिवचने 5.4.5
कूर्पास + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कूर्पासक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कूर्पासक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कूर्पासक + रु - ससजुषो रुः 8.2.66
कूर्पासक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कूर्पासकः - खरवसानयोर्विसर्जनीयः 8.3.15