अमरकोशः


श्लोकः

अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरमे । तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनाहत अनाहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न आहतम् ॥ तत्पुरुषः समासः अकारान्तः
2 निष्प्रवाणि निष्प्रवाणिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्गता प्रवाणी ल्युट् कृत् इकारान्तः
3 तन्त्रक तन्त्रकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कन् तद्धितः अकारान्तः
4 नवाम्बर नवाम्बरम् नपुंसकलिङ्गः नवं च तदम्बरं चा ॥ तत्पुरुषः समासः अकारान्तः
5 उद्गमनीय उद्गमनीयम् नपुंसकलिङ्गः उद्गम्यतेऽभिलष्यते । अनीयर् कृत् अकारान्तः