उद्गमनीयम्

सुधाव्याख्या

तदिति । धौतयोः प्रक्षालितयोर्वस्त्रयोर्युगम् । उद्गम्यतेऽभिलष्यते । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । अनीयर् (३.१.९६) ॥ ‘युगम्’ इत्यविवक्षितम् ।