निष्प्रवाणिः

सुधाव्याख्या

प्रोयतेऽनया । ‘वेञ् तन्तुसंताने’ (भ्वा० उ० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् । निर्गता प्रवाणी तन्तुवायशलाकास्मात् । ‘निष्प्रवाणिश्च’ (५.४.१६०) इति साधुः ॥


प्रक्रिया

धातुः -


वेञ् तन्तुसन्ताने
वे - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
निस् + प्र + वे + ल्युट् - करणाधिकरणयोश्च 3.3.117, निष्प्रवाणिश्च 5.4.160
निष्प्र + वे + ल्युट् - आदेशप्रत्यययोः 8.3.59
निष्प्र + वे + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
निष्प्र + वे + अन - युवोरनाकौ 7.1.1
निष्प्र + वा + अन - आदेच उपदेशेऽशिति 6.1.45
निष्प्रवान - अकः सवर्णे दीर्घः 6.1.101
निष्प्रवाण - पूर्वपदात्‌ संज्ञायामगः 8.4.3
निष्प्रवाण + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
निष्प्रवाण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
निष्प्रवाण् + ई - यस्येति च 6.4.148
निष्प्रवाणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निष्प्रवाणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निष्प्रवाणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68