अमरकोशः


श्लोकः

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका । त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हंसक हंसकः पुंलिङ्गः हंस इव कायति । कृत् अकारान्तः
2 पादकटक पादकटकः पुंलिङ्गः पादस्य कटको वलयः ॥ तत्पुरुषः समासः अकारान्तः
3 किंकिणी किंकिणी स्त्रीलिङ्गः किञ्चित् किणं करोति । अच् कृत् ईकारान्तः
4 क्षुद्रघण्टिका क्षुद्रघण्टिका स्त्रीलिङ्गः घण्टेव । कन् तद्धितः आकारान्तः
5 वस्त्रयोनि वस्त्रयोनिः स्त्रीलिङ्गः वस्त्रस्य योनिः कारणम् ॥ तत्पुरुषः समासः इकारान्तः