क्षुद्रघण्टिका

सुधाव्याख्या

घण्टेव । ‘इवे-’ (५.३.९६) इति कन् । यद्वा घण्टति, घण्टयति, वा । ‘घटि दीप्तौ’ (चु० उ० से०) । ण्वुल् (३.१.१३३) । क्षुद्रा चासौ घण्टिका च ॥


प्रक्रिया

धातुः -


घण्ट + सु + कन् - इवे प्रतिकृतौ 5.3.96
घण्ट + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
घण्ट + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
घण्टिक - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
घण्टिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
घण्टिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
घण्टिका - अकः सवर्णे दीर्घः 6.1.101
क्षुद्र + सु + घण्टिका + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
क्षुद्र + घण्टिका - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षुद्रघण्टिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षुद्रघण्टिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुद्रघण्टिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68