किंकिणी

सुधाव्याख्या

किमिति । किञ्चित् किणं करोति । किणशब्दात् ‘तत्करोति’ (वा० ३.१.२६) इति ण्यन्तादच् (३.१.१३४) । गौरादिः (४.१.४१) ।-कङ्कणी-इति स्वामी । कङ्कनम् । ‘ककि गतौ’ (भ्वा० प० से०) । घञ् (३.३.१८) । कङ्के गतावणति । ‘अण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । शकन्ध्वादिः (वा० ६.१.९४) । यद्वा कं सुखं कणति । ‘कण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कङ्कणः स्यात्प्रतिसरः कङ्कणी क्षुद्रघण्टिका’ इति भागुरिः ॥


प्रक्रिया

धातुः -


किं + किण + णिच् - तत्करोति तदाचष्टे (3.1.26) । वार्तिकम् ।
किं + किण + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
किं + किण + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
किं + किण + अच् - णेरनिटि 6.4.51
किं + किण + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
किङ्किण - अनुस्वारस्य ययि परसवर्णः 8.4.58
किङ्किण + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
किङ्किण + ई - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किङ्किण् + ई - यस्येति च 6.4.148
किङ्किणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
किङ्किणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किङ्किणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68