अमरकोशः


श्लोकः

विभ्राड् भ्राजिष्णुरोचिष्णू भूषा तु स्यादलंक्रिया । अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विभ्राज् विभ्राज् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भ्राजते तच्छीलः । क्विप् कृत् जकारान्तः
2 भ्राजिष्णु भ्राजिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इष्णुच् तद्धितः उकारान्तः
3 रोचिष्णु रोचिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रोचते तच्छीलः इष्णुच् कृत् उकारान्तः
4 भूषा भूषा स्त्रीलिङ्गः भूषणम् । कृत् आकारान्तः
5 अलङ्क्रिया अलङ्क्रिया स्त्रीलिङ्गः अलङ्करणम् । कृत् आकारान्तः
6 अलङ्कार अलङ्कारः पुंलिङ्गः अलंक्रियतेऽनेन । घञ् कृत् अकारान्तः
7 आभरण आभरणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 परिष्कार परिष्कारः पुंलिङ्गः घञ् कृत् अकारान्तः
9 विभूषण विभूषणम् नपुंसकलिङ्गः विभूष्यतेऽनेन ॥ ल्युट् कृत् अकारान्तः