परिष्कारः

सुधाव्याख्या

अलमिति । अलंक्रियतेऽनेन । घञ् (३.३.१९) । ‘अलङ्कारः कङ्कणादिषु । उपमादौ’ इति हैमः ॥ एवं परिष्कारोऽपि ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
परि + कृ + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19
परि +कृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
परि + कार् + अ - अचो ञ्णिति 7.2.115
परि + सुट् + कार - सम्पर्युपेभ्यः करोतौ भूषणे 6.1.137
परि + स् + कार - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिष्कार - परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् 8.3.70
परिष्कार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परिष्कार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिष्कार + रु - ससजुषो रुः 8.2.66
परिष्कार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिष्कारः - खरवसानयोर्विसर्जनीयः 8.3.15