अमरकोशः


श्लोकः

खगे विहंगविहगविहंगमविहायसः । शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 खग खगः पुंलिङ्गः खे गच्छन्ति । कृत् अकारान्तः
2 विहङ्ग विहङ्गः पुंलिङ्गः विहायसि गच्छन्ति । खच् कृत् अकारान्तः
3 विहग विहगः पुंलिङ्गः कृत् अकारान्तः
4 विहंगम विहंगमः पुंलिङ्गः विहायसि गच्छन्ति । खच् कृत् अकारान्तः
5 विहायस् विहायाः पुंलिङ्गः विजहाति भुवम् । असुन् उणादिः सकारान्तः
6 शकुन्ति शकुन्तिः पुंलिङ्गः शक्नोति । उन्ति उणादिः इकारान्तः
7 पक्षिन् पक्षी पुंलिङ्गः पक्षावस्य स्तः । इनि तद्धितः नकारान्तः
8 शकुनि शकुनिः पुंलिङ्गः शक्नोति । उनि उणादिः इकारान्तः
9 शकुन्त शकुन्तः पुंलिङ्गः शक्नोति । उन्त उणादिः अकारान्तः
10 शकुन शकुनः पुंलिङ्गः शक्नोति । उन उणादिः अकारान्तः
11 द्विज द्विजः पुंलिङ्गः द्विर्जायते । कृत् अकारान्तः