विहायाः

सुधाव्याख्या

विजहाति भुवम् । ‘ओहाक् त्यागे’ (जु० प० अ०) । ‘वहिहाधाञ्भ्यश्छन्दसि’ (उ० ४.२२१) इत्यसुन् णिच्च । क्वचिच्छान्दसा अपि भाषायां प्रयुज्यन्ते । तेन लोकेऽपि । यद्वा वि हाययति । ‘हय गतौ’ (भ्वा० प० से०) । ‘हि गतौ’ (स्वा० प० अ०) वा स्वार्थण्यन्तः । ‘सर्वधातुभ्योऽसन्’ (उ० ४.१८९) ‘विहायाः शकुनौ पुंसि गगने पुनपुंसकम्’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


ओँहाक् त्यागे
हा - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
वि + हा + असुन् - वहिहाधाञ्भ्यश्छन्दसि (४.२२१) । उणादिसूत्रम् ।
विहा + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
विहा + युक् + अस् - आतो युक् चिण्कृतोः 7.3.33
विहा + य् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
विहायस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विहायस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहायास् + स् - अत्वसन्तस्य चाधातोः 6.4.14
विहायास् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विहाया + रु - ससजुषो रुः 8.2.66
विहाया + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहायाः - खरवसानयोर्विसर्जनीयः 8.3.15