विहङ्गः

सुधाव्याख्या

विहायसि गच्छन्ति । ‘गमश्च’ (३.२.४७) इति खच् । ‘विहायसो विह च’ (वा० ३.२.३८) । ‘खच्च डिद्वा’ (वा० ३.२.३८) ॥


प्रक्रिया

धातुः -


गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2
विहायस् + ङि + गम् + खच् - गमश्च 3.2.47
विहायस् + गम् + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
विह + गम् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8 तस्य लोपः 1.3.9
विह + ग् + अ - विहायसो विह इति वाच्यम् (3.2.38) । वार्तिकम् ।
विह + मुम् + ग - खच्च डिद्वा वक्तव्यः (3.3.88) । वार्तिकम् ।
विह + म् + ग - अरुर्द्विषदजन्तस्य मुम् 6.3.67
विहं + ग - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
विहङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
विहङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विहङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहङ्ग + रु - ससजुषो रुः 8.2.66
विहङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15