अमरकोशः


श्लोकः

मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् । शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मयूर मयूरः पुंलिङ्गः मयते । ऊर उणादिः अकारान्तः
2 बर्हिण बर्हिणः पुंलिङ्गः बर्हमस्त्यस्य । इनन् तद्धितः अकारान्तः
3 बर्हिन् बर्ही पुंलिङ्गः इनि तद्धितः नकारान्तः
4 नीलकण्ठ नीलकण्ठः पुंलिङ्गः नीलः कण्ठोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 भुजङ्गभुज् भुजङ्गभुक् पुंलिङ्गः भुजंगं भुङ्क्ते । क्विप् कृत् जकारान्तः
6 शिखावल शिखावलः पुंलिङ्गः शिखास्त्यस्य । वलच् तद्धितः अकारान्तः
7 शिखिन् शिखी पुंलिङ्गः इनि तद्धितः नकारान्तः
8 केकिन् केकी पुंलिङ्गः केकास्त्यस्य । इनि तद्धितः नकारान्तः
9 मेघनादानुलासिन् मेघनादानुलासी पुंलिङ्गः मेघनादेनानुलसति तच्छीलः णिनि कृत् नकारान्तः