मेघनादानुलासी

सुधाव्याख्या

मेघनादेनानुलसति तच्छीलः। 'लस श्लेषणक्रीडनयो:' (भ्वा० प० से० )। 'सुप्यजातौ -' ( ३.२.७८) इति णिनि ।।


प्रक्रिया

धातुः -


लसँ श्लेषणक्रीडनयोः
लस् - उपदेशेऽजनुनासिक इत् 1.3.2
मेघनाद + टा + अनु + लस् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78, उपपदमतिङ् 2.2.19
मेघनाद + अनु + लस् + णिनि - सुपो धातुप्रातिपदिकयोः 2.4.71
मेघनाद + अनु + लस् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
मेघनाद + अनु + लास् + इन् - अत उपधायाः 7.2.116
मेघनादानुलासिन् - अकः सवर्णे दीर्घः 6.1.101
मेघनादानुलासिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मेघनादानुलासिन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मेघनादानुलासीन् + स् - सौ च 6.4.13
मेघनादानुलासीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मेघनादानुलासी - नलोपः प्रातिपदिकान्तस्य 8.2.7