मयूरः

सुधाव्याख्या

मेति । मयते । ‘मय गतौ’ (भ्वा० आ० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । मह्यां रौति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । पृषोदरादिः (६.३.१०९) ॥