अमरकोशः


श्लोकः

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ । हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कादम्ब कादम्बः पुंलिङ्गः कदम्बे समूहे भवः अण् तद्धितः अकारान्तः
2 कलहंस कलहंसः पुंलिङ्गः कलो मधुरवाक् हंसः । तत्पुरुषः समासः अकारान्तः
3 उत्क्रोश उत्क्रोशः पुंलिङ्गः उत्क्रोशति । अच् कृत् अकारान्तः
4 कुरर कुररः पुंलिङ्गः कवते । क्ररन् उणादिः अकारान्तः
5 हंस हंसः पुंलिङ्गः हन्ति गच्छति । उणादिः अकारान्तः
6 श्वेतगरुत् श्वेतगरुत् पुंलिङ्गः श्वेता गरुतोऽस्य ॥ बहुव्रीहिः समासः तकारान्तः
7 चक्राङ्ग चक्राङ्गः पुंलिङ्गः चक्राण्यङ्गान्यस्य । बहुव्रीहिः समासः अकारान्तः
8 मानसौकस् मानसौकाः पुंलिङ्गः मानसं सर ओकोऽस्य ॥ बहुव्रीहिः समासः सकारान्तः