हंसः

सुधाव्याख्या

हंसा इति । हन्ति गच्छति । ‘वृतॄवदिहनि-’ (उ० ३.६२) इति सः । यद्वा अचि (३.१.१३४) ‘भवेद्वर्णागमाद्धंसः’ इति सक् । ‘हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमात्मन्यमत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे । तुरंगमप्रभेदे च’ (इति मेदिनी) ॥