कुररः

सुधाव्याख्या

कवते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) ‘कुवः क्ररन्’ (उ० ३.१३३) । कुरति । ‘कुर शब्दे’ (तु० प० से०) । ‘कुर छेदने’ (तु० प० से०) । बाहुलकात् अरक् –इति स्वामिमुकुटौ ‘कुवः क्ररन्’ इति सूत्रास्मरणमूलकौ ज्ञेयौ ॥