अमरकोशः


श्लोकः

सितासौ श्वेतसुरसा भूतवेश्यथ मागधी । गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्वेतसुरसा श्वेतसुरसा स्त्रीलिङ्गः श्वेता चासौ सुरसा च ॥ तत्पुरुषः समासः आकारान्तः
2 भूतवेशी भूतवेशी स्त्रीलिङ्गः भूतानि विशति । तत्पुरुषः समासः ईकारान्तः
3 मागधी मागधी स्त्रीलिङ्गः मगधे देशे भवा । अण् तद्धितः ईकारान्तः
4 गणिका गणिका स्त्रीलिङ्गः चित्ताकर्षकत्वाद्गणिकेव । आकारान्तः
5 यूथिका यूथिका स्त्रीलिङ्गः यूथमस्त्यस्याः । ठन् तद्धितः आकारान्तः
6 अम्बष्ठा अम्बष्ठा स्त्रीलिङ्गः अम्बेव मातेव तिष्ठति । तत्पुरुषः समासः आकारान्तः
7 हेमपुष्पिका हेमपुष्पिका स्त्रीलिङ्गः हेमवर्ण पुष्पमस्याः । बहुव्रीहिः समासः आकारान्तः